SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ बृहद्यमस्मृतिः । सफलं जायते सर्वमिति शातातपोऽब्रवीत् । न च दत्तो अ (sc) हीनोऽतिस्नेहेन च तथाऽपरः ।।१७ २११८ बलाद्गृहीतो बद्धश्च बन्धुभिर्दत्त एव च । भ्रातुः पुत्रो मित्रपुत्रः शिष्यश्वव तथौरसः ॥ १८ अपुत्रस्य च विज्ञेया दायादा नात्र संशयः । नवैते पुत्रवत्पाल्याः परलोकप्रदा ह्यमी ॥१६ औरसेन समाज्ञेया वचसोद्दालकस्य च । इदानीं भागनिर्णेयमृषिः शातातपोऽत्रवीत् ||२० ज्येष्ठेन वा कनिष्ठेन विभागस्य विनिर्णयः । समभागप्रदाता च अपुत्रेभ्यो न संशयः ॥ २१ समभागो ग्रहीतव्यः पुत्रमत्या सदैव हि । पितृभ्यो भ्रातृपुत्रेभ्यो दायादेभ्यो यथाक्रमात् ॥२२ अधिकस्य च भागौ द्वावितरेभ्यः समासतः । आधौ प्रतिग्रहे क्रान्ते पूर्वा तु बलवत्तरा ॥२३ सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया । समविद्योत्तरं चैव प्रत्यवस्कन्दनं तथा ॥ २४ पूर्वं न्यासविधिश्चैव उत्तरः स्याच्चतुर्विधः । साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ॥२५ पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः । असाक्षिव्यवहारेषु दिव्यं देयं यथाविधि ॥ २६ इति श्रीयाम्ये धर्मशास्त्रे पञ्चमोऽध्यायः ॥ समाप्तेयं बृहद्यमस्मृतिः ।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy