SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २११६ [ पञ्चमो बृहद्यमस्मृतिः । राज्ञां प्रतिग्रहस्त्याज्यो लोकत्रयजिगीषुभिः । राज्ञः प्रतिग्रहाचैव ब्राह्मण्यं हि विलुप्यते ॥५६ गावो दूरप्रचारेण हिरण्यं लोभलिप्सया । विनश्यति गर्वे ( मैं )ण ब्राह्मणो राजसेवया ||६० सेवकाचापि विप्राणां राज्ञां सुकृतनामभिः । कुम्भीपाकेषु पच्यन्ते यावदाभूतसंप्लवम् ॥६१ असेव्यासेविनो विप्रा अयाज्यानां च याजकाः । अपाङ्क्ता (त्या)स्ते च विज्ञ ेयाः सर्वधर्मबहिष्कृताः ||६२ इति श्रीयाम्ये धर्मशास्त्रे चतुर्थोऽध्यायः । पचमोऽध्यायः । अथ श्राद्धकाले पत्न्यां रजस्वलायां निर्णयः । अतः परं प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः । सर्वेषामन्त्यजातीनां वर्णादीनां यथाक्रमम् ॥१ स्त्रीसंपर्कादिकं सर्वं जातमन्त्य जसंज्ञकम् । योनिसंकरजं सर्वं वर्णतश्चापि सर्वशः ||२ विप्रक्षत्त्रियविट्शूद्रा वर्णिजात्येष्वनुक्रमात् । एते ब्राह्मणकुत्साः स्युस्तस्माद्ब्राह्मण (ण्य)मुत्तमम् ॥३ वेदाचाररतो विप्रो वेदवेदाङ्गपारगः । तैरप्यनुष्ठितो धर्म उक्तचैव विशेषतः ||४ कार्ये चैव विशेषेण त्रिभिर्वर्णैरतन्द्रितः । बलाद्दासीकृता ये च म्लेच्छचाण्डालदस्युभिः ||५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy