________________
२११२
बृहद्यमस्मृतिः। [चतुर्थोकष्टेन वतमानोऽपि कालेनैव शुचिर्भवेत्।। गवां मध्ये वसेद्रात्रौ दिवा गा वै ह्यनुवजेत् ॥१५ न स्त्रीणां वपनं कुर्यान्न च गोव्रजनं स्मृतम् । न च गोष्ठे वसेद्रात्रौ न कुर्याद्वैदिकी श्रुतिम् ॥१६ सन्केिशान्समुच्छ्रित्य च्छेदयेदङ्गुलद्वयम् । एष ए(वमे)व तु नारीणां शिरोमुण्डापनं स्मृतम् ॥१७ सूतके मृतके चैव विधि प्रब्रूहि नो यम । आतके वर्तमानेऽपि मृतकं च यदा भवेत् ।।१८ को विधिः स विनिर्दिष्टः कथयस्व यथातथम् । एवमुक्तो हि भगवान्यमः प्राह यथातथम् ॥१६ जातके नैव मृतकं क्षयं याति न संशयः । पूर्वत्रतमनिर्दिष्टं मया च सूतकं भवेत् ।।२० सूतकेन न लिप्येत इति प्राह स्वयं यमः । सूतकेन न लिप्येत व्रतं संपूर्णतां व्रजेत् ।।२१ श्राद्धं दानं तपो यज्ञो देवताराधनं तथा । ब्रह्महा च सुरापश्च स्वर्णरतेयी गुरुद्रुहः ॥२२ संसर्गी पञ्चमो ज्ञेयस्तत्समो नात्र संशयः। एतेषु द्वादशाब्दं च प्रायश्चित्तं विधीयते ॥२३ तथा पातकिनां चैव षडब्दं चैव संस्मृतम् । उपपातकिनां चैव त्रिपञ्चाब्दं विधीयते ॥२४ प्राजापत्यैत्रिभिः कृच्छू कच्छू द्वादशाब्दिकम् । एकमत्तं तथा नक्तमुएवासमथापि वा ॥२५