________________
२१०८
[तृतीयो
बृहद्यमस्मृतिः। उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः। उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥४४ उच्छिष्टभाजनं येन विप्रेण चानवनितम् । स्पृष्टं तेन प्रमादाश्च प्राजापत्यं समाचरेत् ॥४५ उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणो ब्राह्मणेन हि । दशरुद्रीं जपेत्पश्चाद्गायत्र्या शोधनं परम् ॥४६ उच्छष्टोच्छिष्टसंस्पृष्टः क्षत्रियो वैश्य एव च । प्रमादोच्छिष्ट संस्पृष्टः शूद्रेण तु यदा द्विजः॥४७ उपोष्य रजनी रजनीमेकां पञ्चगव्येन शुध्यति । श्वानकुक्कुटमार्जाराः काको वा स्पृशते यदि ॥४८ उच्छिष्टं तं द्विजं यस्तु अहोरात्रेण शुध्यति । पञ्चगव्येन शुद्धिः स्यादित्याह भगवान्यमः ॥४६ रजस्वलां स्पृशेद्यस्तु त्रिरात्रं तत्र कारयेत् । उपोष्य द्विजसंस्कारं पञ्चगव्येन शुध्यति ॥५० उदक्या दृष्टिपातेन श्रुतशब्देन चैव हि । स्नानं देवार्चनं दानं हवनं च प्रणश्यति ॥५१ रक्तवस्त्रस्य विक्रेता लाक्षारजकमे(ए)व च । वेणुजीवनकैवर्ततक्षचर्मोपजीविनः ॥५२ एतेषां स्पर्शनात्पापं तथा चैव तु मोहितः। प्रतिग्रहाच्च विप्रो वै नरकं प्रति गच्छति ॥५३ उदक्याः स्पर्शने चैव ब्राह्मणो वै प्रमादतः । षडात्रोपोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥५४