________________
ऽध्यायः ] श्राद्धे वर्जनीयब्राह्मणाः, सत्पात्रलक्षणवर्णनम् । २१०७
हसन्यासं च यो भुङ्क्ते सशब्दं सेङ्गितं तथा। लेहितं वर्तितं चैव षडते पङ्क्तिदूषकाः ॥३३ श्वित्री कुष्ठी तथा शूली कुनखी श्यावदन्तकः । रोरी हीनातिरिक्ताङ्गः पिशुनो मत्सरी तथा ॥३४ दुर्भगो हि तथा षण्ढः पाखण्डी वेदनिन्दकः। . हैतुकः शूद्रयाजी च अयाज्यानां च याजकः ॥३५ नित्यं प्रतिग्रहे लुब्धो याचको विषयात्मकः। श्यावदन्तोऽथ वैद्यश्च असदालापकस्तथा ॥३६ एते श्राद्ध च दाने च वर्जनीयाः प्रयत्नतः । तथा देवलकश्चैव भृतको वेदविक्रयी ॥३७ एते वाः प्रयत्नेन एवमेव यमोऽब्रवीत् । निराशाः पितरस्तस्य भवन्ति ऋणभागिनः ॥३८ अथ चेन्मत्र(न्त्र)विद्युक्तो वैष्णवो ज्ञानवान्हि सः। हव्यकव्ये नियोक्तव्य इति प्राह स्वयं यमः ॥३६ तस्मात्सर्वप्रत्नेन श्राद्ध यज्ञ च कर्मणि। . अदूष्यं चैव विप्रेन्द्रं योजनीयं(येत्तु) प्रयत्नतः॥४० तथैव मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । वर्जितं च यमः प्राह पङ्क्तिपावन एव सः॥४१ निर्मत्सरः सदाचारः श्रोत्रियो ब्रह्मविद्युवा । विद्याविनयसंपन्नः पात्रभूतो द्विजोत्तमः॥४२ वेदान्तविज्ज्येष्ठसामा अलुब्धो वेदतत्परः। योजनीयः प्रयत्नेन देवे पित्र्ये च कर्मणि । यदत्तं च हुतं तस्मै हनन्तं नात्र संशयः॥४३