________________
ऽध्यायः] कन्याया रजोदर्शने मात्रादीनां नरकप्राप्तिः। २१०५
असच्छूद्रेषु अन्नाधं ये भुञ्जन्त्यबुधा द्विजाः । प्रायश्चित्तं तथा प्राप्तं चरेबान्द्रायणव्रतम् ॥११ यः करोत्येकरात्रेण वृषलीसेवनं द्विजः। तद्भक्षणे जपेन्नित्यं त्रिभिवर्षेळपोहति ॥१२ वृषली यस्तु गृह्णाति ब्राह्मणो मदमोहितः। सदा सूतकिता तस्य ब्रह्महत्या दिने दिने ॥१३ वृषलीगमनं चैव मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं पुनः श्वानो भविष्यति ॥१४ वृषलीफेनपीतस्य निःश्वासोपगतस्य च । तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥१५ अग्रे माहिषकं दृष्टा मध्ये च वृषलीपतिम् । अन्ते वाधुषिकं दृष्टा निराशाः पितरो गताः॥१६ महिषीत्युच्यते भार्या सा चैव व्यभिचारिणी। तान्दोषान्क्षमते यस्तु स वै माहिषकः स्मृतः ॥१७ पितुर्गेहे तु या कन्या पश्यत्यसंस्कृता रजः । भ्रणहत्या पितुस्तस्य(स्याः) कन्या सा वृषली स्मृता ॥१८ यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः । असंभाष्यो ह्यपाङ्क्तयः स विप्रो वृषलीपतिः॥१६ प्राप्ते तु द्वादशे वर्षे कन्यां यो न प्रयच्छति । मासि मासि रजतस्याः पिता पिबति शोणितम् ॥२० अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी। दशवर्षा भवेत्कन्या अत ऊवं रजस्वला ॥२१