SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २१०४ बृहद्यमस्मृतिः । तृतीयोऽध्यायः । अथ प्रायश्चित्तवर्णनम् । उनैकादशवर्षस्य पञ्चवर्षात्परस्य च । तृतीयो प्रायश्चित्तं चरेद्भ्राता पिता वान्योऽपि बान्धवः ॥ १ अतो बालतरस्यापि नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ||२ .अशीत्यधिकवर्षाणि बालो वाऽप्यून षोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥ ३ पितृव्यभ्रातृभार्या च भगिनीं मातुरेव च । श्वश्रं पितृष्वसारं च तप्तकृच्छ्रं समाचरेत् ॥४ राज्ञीमाचार्यशिष्यां वा उपाध्यायस्य योषितः । एता गत्वा स्त्रियो मोहात्षण्मासं कृच्छ्रमाचरेत् ||५ द्वौ मासौ भक्ष्यभोज्यं च द्वौ मासौ यावकेन तु । द्वौ मासौ पञ्चगव्येन षण्मासं कृच्छ्रमाचरेत् ॥ ६ मातरं गुरुपत्नीं च स्वसारं दुहितां तथा । गत्वा तु प्रविशेदग्निं नान्या शुद्धिर्विधीयते ॥७ अस्तं गते यदा सूर्ये चाण्डालमृतुमत्त्रियः । संस्पृशेत्तु यदा कश्चित्प्रायश्चित्तं कथं भवेत् ॥८ जातरूप्यं सुवणं तु दिवाऽऽहृतं च यज्जलम् । तेन स्नात्वा च पीत्वा च गामालभ्य विशुध्यति ॥ दासनापितगोपालकुलमित्रार्धसीरिणः । एते शूद्रास्तु भोज्यान्ना यश्चाऽऽत्मानं निवेदयेत् ॥१०
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy