SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] चान्द्रायणविधिवर्णनम् । द्वितीयोऽध्यायः । अथ चान्द्रायणविधिवर्णनम् । नटां (टी) शैलूषिकां चैव रजकीं वेणुजीविनीम् । गत्वा चान्द्रायणं कुर्यात्तथा चर्मोपजीविनीम् ॥१ कापालिकान्नभोक्तृणां तनयागामिनां तथा । अज्ञानात्कृच्छ्रमुद्दिष्टं ज्ञात्वा चैव तद्वयम् ॥२ सुरायाः संप्रपानेन गोमांसभक्षणे कृते । तप्तकृच्छ्र चरेद्विप्रो मौञ्जीहोमेन शुध्यति ॥ ३ गोक्षत्त्रियं तथा वैश्यं शूद्रं चाप्यनुलोमजम् । ज्ञात्वा विशेषेण ततश्चरेच्चान्द्रायणं व्रतम् ॥४ कुक्कुटाण्डकमात्रं तु प्रासं च परिकल्पयेत् । अन्यथाभावदोषेण नवमेऽति च शुध्यति ॥५ एकैकं वर्धयेद्प्रासं शुक्ले कृष्णे च ह्रासयेत् । अमायां तु न भुञ्जीत एष चान्द्रायणो विधिः ।। ६ प्रायश्चित्तमुपक्रम्य कर्ता यदि विपद्यते । पूतस्तदहरेद्वा ऽ (वा) पि इह लोके परत्र च ॥७ यावदेकः पृथग्भाव्यः प्रायश्चित्तं न सेवते । अप्रशस्ता न ते स्पृश्यास्ते सर्वेऽपि विगर्हिताः ॥८ अभोज्याश्चाप्रतिग्राह्या असंपङ्क्त्या विवाहिकाः । पूयन्ते तु व्रते चीर्णे सर्वे ते रिक्थभागिनः ॥ इति श्रीयाम्ये धर्मशास्त्रे द्वितीयोऽध्यायः । १३२ २१०३
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy