________________
२१०२
बृहद्यमस्मृतिः। [प्रथमोउभयावसिताः पापा ये शामशबलाच्युताः । इन्दुद्वयेन शुध्यन्ति दत्त्वा धेनुं तथा वृषम् ।।५ गोब्राह्मणहतं दधं मृतमुद्वन्धनेन तु । पाशं छित्त्वा ततस्तस्य तप्तकृच्छ्रद्वयं चरेत् ॥६ कृमिभिर्ब्रह्मसंयुक्तं मक्षिकैश्चोपघातितम् । कृच्छ्राधं संप्रकुर्वीत शक्त्या दद्यात्तु दक्षिणाम् ।।७ चाण्डालभाण्डसंस्पृष्टं पीत्वा भूमिगत जलम् । गोमूत्रयावकाहारः षडात्रेण विशुध्यति ।।८ चाण्डालघटभाण्डस्थं यस्तोयं पिबति द्विजः। तत्क्षणाक्षिपते यस्तु प्राजापत्येन शुध्यति ॥६ यदि न क्षिपते तोयं शरीरे यस्य जीर्यति । प्राजापत्यं न दातव्यं कृच्छू सांतपनादिकम् ॥१० चरेत्सांतपनं विप्रः प्राजापत्यं तु क्षत्रियः । तदर्धं तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥११ चाण्डालान्नं भक्षयित्वा तद्वत्सलिलमेव च । मासं कृच्छ्र चरेद्विप्रश्चान्द्रायणमथापि वा ॥१२ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रे सांतपनं स्मृतम् ।।१३ चाण्डालमूर्तिका ये च ये च संकीर्णयोनयः। तेषां दत्त्वा च भुक्त्वा च तप्तकृच्छ्रे समाचरेत् ॥१४ चाण्डालिकासु नारीषु द्विजो मैथुनकारकः। कृत्वाऽघमर्षणं पक्षं शुध्यते च पयोत्रतात् ।।१५
इति श्रीयाम्ये धर्मशास्त्रे प्रथमोऽध्यायः ।