SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २१०० लघुयमस्मृतिः। हस्तौ कृत्वा सुसंयुक्तौ पूरयित्वा जलेन च । गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् ।।६३ आकाशे च क्षिपेद्वारि वारिस्थो दक्षिणामुखः । पितृणां स्थानमाकाशं दक्षिणा दिक्तथैव च ॥६४ आपो देवगणाः प्रोक्ता आपः पितृगणास्तथा । तस्मादप्सु जलं देयं पितणां हितमिच्छता ॥६५ दिवा सूर्यांशुभिस्तप्तं रात्रौ नक्षत्र मारुतैः । संध्ययोरप्युभाभ्यां च पवित्रं सर्वदा जलम् ।।६६ स्वभावयुक्तमव्याप्तममध्येन सदा शुचि । भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम् ।।६७ देवतानां पितृणां च जले दद्याजलाञ्जलीन् । असंस्कृतप्रमीतानां स्थले दद्याजलाञ्जलीन् ।।६८ श्राद्ध हवनकाले च दद्यादेकेन पाणिना । उभाभ्यां तपणे दद्यादिति धर्मो व्यपस्थितः ।। इति लघुयमप्रणीतं धर्मशास्त्रं समाप्तम् । समाप्तेयं यमस्मृतिः। ...८०...
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy