________________
२०६६
.. अस्थिसंचयनकालादिवर्णनम् । नित्यं नैमित्तिक काम्यं वृद्धिश्राद्धमथापरम् । पावणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥८२ ग्रहोपरागे संक्रान्तौ पर्वोत्सवमहालये। .. निपेत्रीनरः पिण्डानेकमेव मृतेऽहनि ॥८३ अनूढा न पृथक्कन्या पिण्डे गोत्रे च सूतके। पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्मश्यते ततः ॥८४ येन येन तु वर्णेन या कन्या परिणीयते । तत्समं सूतकं याति तथा पिण्डोदकेऽपि च ॥८५ विवाहे चैव संवृत्ते चतुर्थेऽहनि रात्रिषु। .. एकत्वं सा ब्रजेद्भर्तुः पिण्डे गोत्रे च सूतके ॥८६ प्रथमेऽह्नि द्वितीये वा तृतीये वा चतुर्थके । अस्थिसंचयनं कार्य बन्धुभिहितबुद्धिभिः ।।८७ चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा। अस्थिसंचयनं प्रोक्तं वर्णानामनुपूर्वशः ।।८८ एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः। मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते ॥८६ गङ्गातोयेषु यस्यास्थि प्लवते शुभकर्मणः । न तस्य पुनरावृत्तिब्रह्मलोकात्कथंचन ॥६० यावदस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति । तावद्वर्ष सहस्राणि स्वर्गलोके महीयते ॥६१ नाभिमात्रे जले स्थित्वा हृदयेनानुचिन्तयेत् । आगच्छन्तु मे पितरो गृह्णन्त्वेताञ्जलाञ्जलीन् ॥१२