________________
२०६७
इष्टापूत्तयाः फलकथनं,पञ्चगव्यविधानश्च। न चेत्तान्पीड़येद्राजा कथंचित्काममोहितः । तत्पापं शतधा भूत्वा तमेव परिसर्पति ॥६० प्रायश्चित्ते ततश्चीर्ण कुर्याद्ब्राह्मणभोजनम् । विंशतिं गा वृषं चैव दद्यात्तेषां च दक्षिणाम् ॥६१ कृमिभित्रणसंभूतैर्मक्षिकाभिश्च पातितः।। कृच्छ्राध संप्रकुर्वीत शक्त्या दद्याच्च दक्षिणाम् ॥६२ प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान् । सुवर्णमाषकं दद्यात्ततः शुद्धिविधीयते ॥६३ चण्डालश्वपचैः स्पृष्टे निशि स्नानं विधीयते । न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुध्यति ॥६४ अथ वसेद्यदा रात्रावज्ञानादविचक्षणः । तदा तस्य तु तत्पापं शतधा परिवर्तते ॥६५ उद्गच्छन्ति हि नक्षत्राण्युपरिष्टाच्च ये ग्रहाः। संस्पृष्टे रश्मिभिस्तेषामुदके स्नानमाचरेत् ॥६६ कुड्यान्तर्जलवल्मीकमूषिकोत्करवर्त्मसु । श्मशाने शौचशेषे च न ग्राह्याः सप्त मृत्तिकाः॥६७ इष्टापूतं तु कर्तव्यं ब्राह्मणेन प्रयत्नतः । इष्टेन लभते स्वर्ग पूर्ते मोक्षं समश्नुते ॥६८ वित्तापेक्षं भवेदिष्टं तड़ागं पूर्तमुच्यते । आरामश्च विशेषेण देवद्रोण्यस्तथैव च ॥६६ वापीकूपतडागानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥७०