________________
२०६६
लघुयमस्मृतिः। काष्ठे सांतपनं कुर्यात्प्राजापत्यं तु लोष्टके । तप्तकृच्छ्तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ।।४६ औषधं स्नेहमाहारं ददद्गोब्राह्मणेषु तु। दीयमाने विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥५० तैलभैषज्यपाने च भेषजानां च भक्षणे । निःशल्यकरणे चैव प्रायश्चित्तं न विद्यते ॥५१ वत्सानां कण्ठवन्धेन क्रियया भेषजेन तु । सायं संगोपनार्थं च न दोषो रोधबन्धयोः ॥५२ पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम् । त्रिपादे तु शिखावज मूले सर्व समाचरेत् ॥५३ सर्वान्केशान्समुद्धृत्य च्छेदयेदङ्गुलद्वयम् । एवमेव हि नारीणां मुण्डमुण्डापनं स्मृतम् ।।५४ न स्त्रिया वपनं कार्य न च वीरासनं तथा । न च गोष्ठे निवासं च (सश्च) न गच्छन्तीमनुव्रजेत् ।।५५ राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्दिशेत् ॥५६ केशानां रक्षणार्थं च द्विगुणं व्रतमादिशेत् । द्विगुणे तु व्रते चीर्णे द्विगुणैव तु दक्षिणा ।।५७ द्विगुणं चेन्न दत्तं च केशांश्च परिरक्षयेत् । पापं न क्षीयते हन्तुर्दाता च नरकं व्रजेत् ।।५८ अश्रौतस्मातविहितं प्रायश्चित्तं वदन्ति ये। तान्धर्मविघ्नकर्तृश्व राजा दण्डेन पीड़येत् ॥५६