________________
२०६४
लघुयमस्मृतिः। गोब्राह्मणगृहं दग्ध्वा मृतं चो(तश्चो)द्वन्धनादिना। . पाशांश्छित्त्वा तथा तस्य कृच्छ्रमेकं चरेद्विजः ॥२७ चण्डालपुक्कसानां च भुक्त्वा गत्वा च योषितम् । कृच्छाब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ।।२८ कापालिकान्नभोक्तृणां तन्नारोगामिना(णां) तथा । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ।।२९ अगम्यागमने विप्रो मद्यगोमांसभक्षणे । तप्तकृच्छपरिक्षिप्तो मौर्वी (जी)होमेन शुध्यति ॥३० महापातककर्तारश्चत्वारोऽप्यविशेषतः।। अग्निं प्रविश्य शुध्यन्ति स्थित्वा वा महति ऋतौ ॥३१ रहस्यकरणेऽप्येवं मासमभ्यस्य पूरुषः । अघमर्षणसूक्तं वा शुध्येदन्तर्जले स्थितः ॥३२ रजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः॥३३ भुक्त्वा चैषां त्रियो गत्वा पीत्वाऽपः प्रतिगृह्य च । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ।।३४ मातरं गुरुपत्नी च स्वमृदुहितरौ स्नुषाम् । गत्वैताः प्रविशेदग्निं नान्या शुद्धिविधीयते ॥३५ राज्ञा(ज्ञी) प्रत्रजितां धात्री तथा वर्णोत्तमामपि । कृच्छ्रद्वयं प्रकुर्वीत सगोत्रामभिगम्य च ॥३६ अन्यासु पितृगोत्रासु मातृगोत्रगतास्वपि । परदारेषु सर्वेषु कृच्छ्रे सांतपनं चरेत् ।।३७