________________
प्रायश्चित्तवर्णनम् ।
स्पृष्टा रजस्वला चैव श्वाजजम्बूकरासभैः । तावत्तिष्ठेन्निराहारा स्नात्वा कालेन शुध्यति ॥ ६१ स्पृष्टा रजस्वला कैश्विचाण्डालैररजस्वला । प्राजापत्येन कृच्छ्रेण प्राणायामशतेन च ॥ ६२ विप्रः स्पृष्टोनिशायाच्च उदक्या पतितेन च । दिवानीतेन तोयेन स्रापयेञ्चाग्निसन्निधौ ||६३ दिवार्क रश्मिसंस्पृष्टं रात्रौ नक्षत्ररश्मिभिः । सन्ध्योभयोश्च सन्ध्यायाः पवित्रं सर्वदा जलम् ॥ ६४ अपः करनखस्पृष्टाः पिबेदाचमने द्विजः । सुरां पिबति सुव्यक्तं यमस्य वचनं यथा ॥ ६५ खातवाप्योस्तथा कूपे पाषाणैः शस्त्रघातनैः । यष्ट्या तु घातने चैव मृत्पिण्डे गोकुलेन च ॥ ६६ रोधने बन्धने चैव स्थापिते पुष्कले तथा । काष्ठे वनस्पतौ रोधसङ्कटे रज्जुवस्त्रयोः ॥६७ एतत्ते कथितं सर्वं प्रमादस्थानमुत्तमम् । यत्र यत्र मृता गावः प्रायश्चित्तं समाचरेत् ॥६८ दारुणा घातने कृच्छ्र पाषाणैर्द्विगुणं भवेत् । अर्द्ध कृच्छ्रन्तु खाते स्यात् पादकृच्छ्रन्तु पादपे ॥ ६६ शस्त्रघाते त्रिकृच्छ्राणि यष्टिघाते सूयं चरेत् ॥७० कृच्छ्र ेण वस्त्रघातेऽपि गोघ्नश्चेति विशुध्यति । योवर्त्तयति गोमध्ये नदीकान्तारमन्तिके ॥७१
२०८६