SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २०६० यमस्मृतिः। रोमाणि प्रथमे पादे द्वितीये श्मश्रु वापयेत् । तृतीये तु शिखा धार्या चतुर्थे सशिखं वपेत् ॥७२ न स्त्रीणां वपनं कुर्यात् न च सा गामनुव्रजेत् । नच रात्रौ वसेद्गोष्ठे न कुर्याद् वैदिकी श्रुतिम् ॥७३ सर्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम् । एवमेव तु नारीणां शिरसो वपनं स्मृतम् ॥७४ मृतकेन तु जातेन उभयोः सूतकं भवेत् । पातकेन तु लिप्तेन नास्य सूतकिता भवेत् ।।७५ चत्वारि खलु कर्माणि सन्ध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रा स्वाध्यायश्च चतुर्थकम् ॥७६ आहाराज्जायते व्याधिः क्रूरगर्भश्च मैथुने । निद्रा श्रियो निवर्तन्ते स्वाध्याये मरणं ध्रुवम् ॥७७ अज्ञानात्तु द्विजश्रेष्ठ ! वर्णानां हितकाम्यया । मया प्रोक्तमिदं शास्त्रं सावधानोऽवधारय ।।७८ इति यमप्रोक्तं धर्मशास्त्रं समाप्तम् ।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy