________________
२०८८
यमस्मृतिः। तूलिका उपधानानि पुष्पं रक्ताम्बराणि च । शोषयित्वा प्रतापेन प्रोक्षयित्वा शुचिर्भवेत् ॥५० देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थाञ्च ज्ञात्वा धर्म समाचरेत् ॥५१ रथ्याकर्दमतोयानि नावायस तृणानि च । मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च ॥५२ आतुरे स्नानसम्प्राप्ते दशकृत्वोह्यगतुरः। स्नात्वा स्नात्वा स्पृशेत्तन्तु ततः शुध्येत आतुरः ।।५३ रजकश्चर्मकारश्च नटोवुरुड़ एव च । कैवर्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥५४ एषां गत्वा तु योषां वै तप्तकृच्छ्र समाचरेत् ॥५५ स्त्रीणां रजस्वलानान्तु स्पृष्टास्पृष्टि यदा भवेत् । प्रायश्चित्तं कथं तासां वर्णे वर्णे विधीयते ॥५६ स्पृष्टा रजस्वला यान्तु सगोत्राश्च सभर्तृकाम् । कामादकामतो वापि स्नात्वा कालेन शुध्यति ॥५७ स्पृष्टा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा । कृच्छ्रण शुध्यते पूर्वा शूद्रा पादेन शुध्यति ॥५८ स्पृष्टा रजस्वलान्योन्यं क्षत्रिया शद्रजा तथा । पादहीनं चरेत् पूर्वा पादार्द्धन्तु तथोत्तरा ॥५६ स्पृष्टा रजस्वलान्योन्यं वैश्यजा शूद्रजा तथा । कृच्छ्रपादं चरेत् पूर्वा तदर्द्धन्तु तथोत्तरा ॥६०