________________
२००७
प्रायश्चित्तवर्णनम्। हविर्गुणा न वक्तव्याः पितरोयत्र तर्पिताः। पितृभि स्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥३६ यावतो असते प्रासान् हव्यकव्येषु मन्त्रवित् । तावतोप्रसते पिण्डान् शरीरे ब्रह्मणः पिता ।।४० उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः । उपोष्य रजमीमेकां पञ्चगव्येन शुध्यति ॥४१ अनुच्छिष्टेन संसाष्टे नानमात्रं विधीयते । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ।।४२ यावद्विप्रा न पूज्यन्ते सम्भोजनहिरण्यकैः।
तावचीर्णव्रतस्यापि तत्पापं न प्रणश्यति ॥४३ यद्वेष्टितं काकबलाकचिल्लरमेष्यलिप्तं तु भवेच्छरीरम् । गाने मुखे च प्रविशेष सम्यक् सानेन लेपोपहतस्य शुद्धिः ॥४४
ऊवं नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते। ऊर्ध्व नानमधःशौचं तन्मात्रेणैव शुध्यति ॥४५ अभक्ष्याणामपेयानामलेयानाश्च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥४६ पद्मोडुम्बरविल्वाश्च कुशाश्वत्थपलाशकाः। एतेषामुदकं पीत्वा षड्रात्रेणैव शुध्यति ।।४७ यः प्रत्यवसितोविप्रः प्रव्रज्याग्निनिरापदि । अनाहिताग्निवर्त्तत गृहित्वञ्च चिकीर्षति ।।४८ आचरेत्त्रीणि कच्छ्राणि चरेचान्द्रायणानि च । जातकर्मादिभिः प्रोक्तः पुनः संस्कारमर्हति ॥४६ १३१