________________
२०८६
यमस्मृतिः। वृषलीफेनपीतस्य निःश्वासोपहतस्य च । तस्याब्चैव प्रसूतस्य निष्कृति व विद्यते ॥२८ श्वित्रकुष्ठी तथा चैव कुनखी श्यावदन्तकः। रोगी हीनातिरिक्ताङ्गः पिशुनोमत्सरस्तथा ॥२६ दुर्भगो हि तथा षण्डः पाषण्डी वेदनिन्दकः । हैतुकः शूद्रयाजी च अयाज्यानाञ्च याजकः ॥३० नित्यं प्रतिग्रहे लुब्धोयाचकोविषयात्मकः । श्यावदन्तोऽथ वैद्यश्च असदालापकस्तथा ॥३१ . एते श्राद्ध च दाने च वर्जनीयाः प्रयत्नतः ॥३२ ततोदेवलकश्चव भृतकोवेदविक्रयी। एते वाः प्रयत्नेन एतद्भास्वतिरब्रवीत् ॥३३ एतान्नियोजयेद्यस्तु हव्ये कव्ये च कमणि । निराशाः पितरस्तस्य यान्ति देवामहर्षिभिः ॥३४ अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषलीपतिम् । अन्ते वाईषिकं दृष्ट्वा निराशाः पितरोगताः ॥३५ महिषीत्युच्यते भार्या या चैव व्यभिचारिणी। तान् दोषान् क्षमते यस्तु स वै माहिषिकः स्मृतः ॥३६ समार्घन्तु समुद्धृत्य महाघं यः प्रयच्छति । सवै वाधुषिकोनाम ब्रह्मवादिषु गर्हितः ॥३७ यावदुष्णं भवत्यन्नं यावद्भुञ्जन्ति वाग्यताः । अश्नन्ति पितरस्तावद्यावन्नोक्ता हविगुणाः ॥३८