SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तवर्णनम् । अशीतीर्यस्य वर्षाणि बालोवाप्यून षोडशः । प्रायश्चित्तार्द्ध मर्हन्ति स्त्रियोरोगिण एव च ॥ १७ अस्तंगतो यदा सूर्यचाण्डालरजकस्त्रियः । संस्पृष्टास्तु तदा कैश्चित् प्रायश्चित्तं कथं भवेत् ॥१८ जातरूपं सुवर्णश्च दिवानीतं च यज्जलम् । तेन स्नात्वा च पीत्वा च सर्वे ते शुचयः स्मृताः ॥ १६ दासनापितगोपाल कुल मित्राद्ध सीरिणः । २०८५ एते शूद्रेषु भोज्यान्ना यश्चात्मनं निवेदयेत् ॥२० अन्नं शूद्रस्य भोज्यं वा ये भुञ्जन्त्यबुधा नराः । प्रायश्चित्तं तथा प्राप्तं चरेच्चान्द्रायणं व्रतम् ॥२१ प्राप्ते द्वादशमे वर्षे यः कन्यां न प्रयच्छति । मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥२२ माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥२३ यस्तां विवाहयेत् कन्यां ब्राह्मणो मदमोहितः । असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः ||२४ वन्ध्या तु वृषली ज्ञेया वृषली तु मृतप्रजाः । शूद्री तु वृषली ज्ञेया कुमारी तु रजस्वला ||२५ यत् करोत्येकरात्रेण वृषलीसेवनाद् द्विजः । तद्वैभुग् जपन्नित्यं त्रिभिर्वर्षेव्यपोहति ॥ २६ स्ववृषं या परित्यज्यान्यवृषेण वृहस्पतिः । वृषली सा तु विज्ञेया न शूद्री वृषली भवेत् ॥७२
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy