SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अथ *॥ यमस्मृतिः ॥ ......०००...... ॥ श्रीगणेशायनमः ॥ ......... अथ प्रायश्चित्तवर्णनम् । अथातो ह्यस्य धर्मस्य प्रायश्चित्ताभिधायकम् । चतुर्णामपि वर्णानां धर्मशास्त्रं प्रवर्त्तते ॥१ जलाग्न्युद्वन्धनभ्रष्टाः प्रव्रज्यानशनच्युताः। विषप्रपतनप्रायशस्त्रघातच्युताश्च ये ॥२ सर्वे ते प्रत्यवसिताः सर्वलोकवहिष्कृताः । चान्द्रायणेन शुध्यन्ति तप्तकच्छ्रद्वयेन वा ॥३ उभयावसिताः पापा येऽग्राम्यशरणच्युताः । इन्दुद्वयेन शुध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥४ गोब्राह्मणहनं दग्धा मृतमुद्वन्धनेन च । पाशं तस्यैव छित्त्वा तु तप्तकृच्छ्रे समाचरेत् ॥५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy