________________
२०८२
वृद्धगौतमस्मृतिः ।
मधुसूदनवाक्यानि स्मृत्वा चैव पुनः पुनः । मनसा पूजयामासु हृदिस्थं पञ्च पाण्डवाः ॥४४ युधिष्ठिरोऽपि धर्मात्मा हृदि कृत्वा जनार्दनम् । तद्भक्त स्तन्मना युक्तस्तद्याजी तत्परोऽभवत् ॥४५ एवमेतत्पुरावृत्तं वैष्णवं धर्मशासनम् ।
मया ते कथितं राजन् ! पवित्रं पापनाशनम् ॥४६ चिन्तयस्व सदा विष्णु मप्रमत्तः कुरूद्वह् ! | लोका गच्छन्ति नान्येन तद्विष्णोः परमं पदम् ॥४७
[ द्वाविंशो
इति वृद्धगौतमीये वैष्णवधर्मशास्त्रे द्वाविंशतितमोऽध्यायः । समाप्ताचेयं वृद्धगौतमस्मृतिः ।
ॐ तत्सत् ।
sportosto
——