________________
ऽध्यायः] . धमशास्त्रश्रवण महत्त्ववर्णनम्। २०८१
एतत्पुण्यं पवित्रञ्च पापनाशन मुत्तमम् । श्रोतव्यं श्रद्धया युक्तै मद्भक्तश्च विशेषतः ॥३३ श्रावयेद्यस्त्विदं भक्त्या प्रयतोऽथ शृणोति वा । स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा ॥३४ यश्चेदं श्राववेच्छाद्धे भद्भक्तो मत्परायणः। पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ।।३५
___ वैशम्पायन उवाच । प्रहृष्टः सुमना भूत्वा चिन्तयेताद्भुतां कथाम् ॥३६ पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः । देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा ॥३७ भूता यक्षा ग्रहाश्चैव गुह्यका भुजगा स्तथा। बालखिल्या महात्मानो मुनय स्तत्त्वदर्शिनः॥३८ तथा भागवताश्चंव पञ्चकालरता स्तथा । कौतूहलसमायुक्ता भगवद्भक्तिमागताः ॥३६ श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम् । विमुक्तपापाः पूतास्ते संपूता स्तत्क्षणेन तु ॥४० प्रणम्य शिरसा विष्णु प्रसादसुमुखक्षणः । यथागतं ययुर्देवाः सिद्धाश्चर्षिगणैः सह ॥४१ गतेषु तेषु सर्वेषु केशवः केशिहा तदा । विसृज्य पाण्डवान् सर्वान् प्रणतान् द्वारकां ययौ ॥४२ ततः प्रणम्य गोविन्दं तदा प्रभृति पाण्डवाः । कपिलाद्यानि दानानि दश विष्णुपरायणाः॥४३