________________
२०८०
वृद्धगौतमस्मृतिः। द्वाविशोअवाप्स्यसि ततः सिद्धिं निश्चयं हि अनुत्तमाम् । अपार्थकं प्रभाषन्ते शूद्रा भागवता इति ॥२३ न शूद्रा भगवद्भक्ता विप्रा भागवता स्मृताः । द्वादशाक्षरतत्त्वज्ञ श्चतुव्यूह विधानवित् ।।२४ अच्छिद्रः पञ्चकालज्ञः सर्वे भागवताः स्मृताः । ऋग्वेद यजुषो होता यजुषाध्वर्युरेव च ॥२५ सामवेदेन चोद्गाता पुण्येनाभिस्तुवन्ति माम् । .. अथर्वशिरसा चैव नित्यमाथर्वणं द्विजाः ॥२६ स्तुवन्ति सततं ये च ते हि भागवता स्मृताः । वेदाधीनाः सदा यज्ञा यज्ञाधीनाश्च देवताः ॥२७ देवता ब्राह्मणाधीना स्तस्माद्विप्रास्तु देवताः । अनाश्रिताश्रयन्नास्ति मुख्यमाश्रय माश्रयेत् ।।२८ रुद्रं समाश्रिता देवा रुद्रो ब्रह्माण माश्रितः । ब्रह्मा मामाश्रितो राजन्नाहं किञ्चिदुपाश्रितः ॥२६ ममाश्रयो न किञ्चित्तु सर्वेषा माश्रयोऽस्म्यहम् । एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम् ।।३० धर्मप्रिय ! ब्रुवे राजन्नित्यमेव समाचर। इदं पवित्र माख्यानं पुण्यं वेदेन सम्मितम् ॥३१ यः पठेन्मामकं धर्म महन्यहनि भारत !। धर्मोऽपि वर्धते तस्य बुद्धिश्चापि प्रसीदति । पापक्षय मुपैत्येव कल्याणञ्च विवर्धते ॥३२