________________
२०७६
ऽध्यायः]
भगवद्भक्तवर्णनम् । नश्यन्ति तामसा भावाः शूद्रस्य मयि भक्तितः। पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥१२ तदहं भक्तिदत्तं यन्मूर्ना गृह्णामि रुद्रतः। चण्डालो वा प्रियः कश्चित् सर्वपापसमन्वितः॥१३ यदि मां सततं ध्यायेत् स पापेभ्यः प्रमुच्यते । विद्याविनयसम्पन्ना ब्राह्मणा वेदपारगाः ।।१४ मयि भक्तिन्न कुर्वन्ति चण्डालसहशा हि ते । वृथा दत्तं वृथा जप्तं वृथाचेष्टं वृथाहुतम् ॥१५ वृथा तीर्थे तु दत्तं स्याद् यो न भक्तो मयि द्विजः। यत्कृतश्च हुतञ्चापि यदिष्टं दत्तमेव वा ॥१६ अवैष्णवोक्तं तत्सर्व राक्षसा एव भुञ्जते । स्थावरो जङ्गमो वाऽपि सर्वभूतेषु पाण्डव ! ॥१७ समत्वेन दयां कुर्यान्मद्भक्तो मित्रशत्रुषु । आनृशंस्य महिंसा च दया सत्यं तथाजवम् ॥१८ अद्रोहं मम भक्तानाम्भूतानामभय न्नृप !। इत्येवमादयो ब्रूयान्मद्भक्त्या श्रद्धयान्वितः ॥१६ तस्याक्षयो भवेल्लोकः श्वपाकस्यापि पार्थिव !। किं पुनर्ये समचन्ति मद्भक्तविधि पूर्वकम् ।।२० मद्भक्ता मद्गतप्राणाः स्तुवन्ति ये तु मां सदा । बहुवर्षसहस्राणि तपस्तप्यति यो नरः ॥२१ नासौ तत्पदमाप्नोति मद्भक्तैर्यदवाप्यते । मामेव तस्माद्राजर्षे ! ध्याहि नित्यमतन्द्रितः ।।२२