________________
२०७८ वृद्धगौतमस्मृतिः।
[द्वाविंशोश्रीभगवानुवाच । अवृतेनाप्यभक्तेन स्पृष्टा शूद्रेण यार्चना । ता वर्जयामि यत्नेन श्वपाकविहितामिव ॥२ त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन । दिवा वा यदि वा रात्रा वुद्विग्नं कुरु लाघवात् ॥३ न भवेद्देवदैत्येभ्यो रक्षोभ्यश्चैव यो नृप !। शूद्रवक्त्रार्चिताद्वेदाद्भयन्तु सुमहन्मम । तस्मात्सप्रणवं शूद्रोमन्त्रं मे नैव कीर्तयेत् ॥४ प्रणवं हि परं ब्रह्म नित्यं ब्रह्मविदो विदुः । द्विजशुश्रूषणं धर्म शूद्राणां भक्तितो मयि ॥५ ते न गच्छन्ति वै स्वर्ग चिन्तयन्तो हि मां सदा । द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति ॥६ द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः । रागो द्वेषश्च मोहश्च पारुष्यश्चानृशंसता ।।७ शाम्यञ्च दीर्घवैरत्व मतिमान मनार्जवम् । अनृतञ्चापवादञ्च पैशुन्यमतिलोभता १८ हिंसा स्तेया मृषावादो वञ्चना रोषलोलुता। अबुद्धिता च नास्तिक्यं भयमालस्यमेव च ॥8 अशौचत्वञ्चाकृतज्ञत्वं दम्भता स्तम्भ एव च । निकृतिश्चाप्यवज्ञानं ज्ञातके शूद्रमाविशेत् ।।१० दृष्ट्वा पितामहः शूद्रमभिभूतन्तु तामसैः । द्विजशुश्रूषणं धर्म शूद्राणान्तु प्रयुक्तवान् ।।११