SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ शूद्रधर्मवर्णनम् वेदोक्तेनैव मार्गेण सर्वभूतहृदि स्थितम् । मामर्चयन्ति ये विप्राः सायुज्यं यान्ति ते मम ॥२७ Sध्यायः ] परित्राणाय भक्तानां प्रादुर्भावः कृतोमया । प्रादुर्भावाकृतिः काचिदर्चयेत्तां युधिष्ठिर ! | आसामन्यातमं मूर्ति यो भक्त्या च समर्चति ॥ २८ तेनैव परितुष्टोऽहं भविष्यामि न संशयः । मृदा च मणिरत्नेश्च ताम्रण रजतेन वा ॥ २६ कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा । पुण्यं दशगुणं दद्यादेतेषामुत्तमोत्तमम् ||३० जयकामोऽर्चयेद्राजा विद्याकामो द्विजोत्तमः । वैश्योऽपि धनकामस्तु शूद्रः पुण्यफलप्रियः ||३१ सर्वकामाः खियो वाऽपि सर्वान् कामान्नवा' नुयुः ॥३२ इति गौतमीये वैष्णव धर्मशास्त्रे भक्त्यार्चनविधिर्नाम एकविंशोऽध्यायः । २०७७ द्वाविंशोऽध्यायः । अथ शूद्रधर्मवर्णनम् । युधिष्ठिर उवाच । कीदृशानान्तु शूद्राणां नानुगृहासि वार्चनम् । उद्वेग स्तव कस्मात्तु तद् ब्रवीहि सुरोत्तम ! || १
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy