________________
२०७६ . वृद्धगौतमस्मृतिः। [एकविंश
यान्युक्तानि मया सम्यक् विद्याजन्मानि भारत !। उत्पन्नानि पवित्राणि पावनार्थन्तथैव च ॥१७ तस्मात्तानि न शूद्राय स्पृष्टव्यानि गुधिष्ठिर !। सर्व तच्छुद्रसंस्पृष्टं न पवित्रं न संशयः॥१८ लोके त्रीण्यपवित्राणि पञ्चामेध्यानि भारत !। श्वा शूद्रश्वश्वपाकश्चेत्यपवित्राणि पाण्डव ! ॥१६ देवलः शूककीटो यूप उदक्या वृषलीपतिः। पञ्चते स्युरमेथ्याश्च न स्पृष्टव्याः कथञ्चन ॥२० स्पृष्टौतान्यष्ट वै विप्रः सचैलो जलमाविशेत् । मद्भक्तान् शूद्रसामान्यादवमन्यन्ति ये नराः । नरकेष्वेव तिष्ठन्ति वर्षकोटि नराधमाः ॥२१ चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् । अवमन्य पतत्येव नरके रौरवे नरः ।।२२ मम मद्भक्तभक्तेषु सम्मतिबधिका भवेत् । तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ॥२३ कीटपक्षिमृगाणाञ्च मयि सन्न्यस्तचेतसाम् । ऊर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनान्नृप ! ।।२४ पत्रं वाप्यथवा पुष्पं फलं वा तोयमेव वा । ददाति मम शूद्रोऽपि शिरसा धारयामि तम् ।।२५ विप्रानेवाचयेद्भक्त्या शूद्रः प्राणैश्च मत्प्रियः। तेषान्तेनैव रूपेण पूजां गृह्णामि भारत ! ॥२६