________________
२०७४
वृद्धगौतमस्मृतिः। [एकविंशोमम सूक्त जपेद्यस्तु नित्यं मद्तमानसः । न स पापेन लिप्येत पद्मपत्रमिवाम्भसा ॥४६ इति गौतमीये वैष्णवधर्मशास्त्रे रहस्यप्रायश्चित्तं :नाम
विंशोऽध्यायः।
एकविंशोऽध्यायः। अथ भक्त्यार्चन विधिवर्णनम् ।
युधिष्ठिर उवाच। कीदृशा ब्राह्मणाः पुण्या भावसिद्धाः सुरेश्वर !। तत्कर्म सफलं वेति कथयस्व ममाच्युत ! ॥१
श्रीभगवानुवाच। शृणु पाण्डव ! तत्सव ब्राह्मणानां यथाक्रमम् । सफलं निष्फलउचेति तेषां कर्म ब्रवीमि ते ॥२ त्रिदण्डधारणं मौनं जटाधारणमुण्डनम् । वल्कलाजिनस शो व्रतचर्याभिषेचनम् ॥३ अमिहोत्रं वनेवासः स्वाध्यायो ध्यानसंस्क्रिया। सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः ॥४ अग्निहोत्रं पृथा राजन् ! वृथा वेदास्तथैव च । शीलो देवास्तु तुष्यन्ति श्रूयतां तत्र कारणम् ॥५ .