________________
२०७३
ऽध्यायः] रहस्य प्रायश्चित्तवर्णनम् ।
मित्रावरुणको पादौ पुच्छमूलं हुताशनः । ततः पश्चाद्भवेदिन्द्रः ततः पश्चात्प्रजापतिः ॥३६ अभयञ्च ततः पश्चात् स एव ध्रुवसंज्ञितः। एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः ॥३७ पिवेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोषितः । तस्य नश्यति तत्सर्वं यत्पापं पूर्वसंज्ञितम् ॥३८ अथव ब्रह्मकूर्चन्तु समन्त्रं तु पृथक् पृथक्। . मासि मासि पिवेद्यस्तु तस्य पापं प्रणश्यति ॥३६ पात्रञ्च ब्रह्मकूर्चस्य शृणु मन्त्रञ्च भारत !। पलाशं पद्मपत्रं वा ताम्र वाथ हिरण्मयम् ॥४० सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम् । गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् ॥४१ आप्यायस्वेति च क्षीरं दधिक्राणेति वै दधि । आज्यं शुक्रमसीत्येव देवस्येति कुशोदकम् । आपोहिष्ठेति संगृह्य यवचूर्ण यथाविधि ॥४२ ब्रह्मणे च तथाहुत्वा समिद्धे तु हुताशने ।
आलोभ्य प्रणवेनैव निर्मथ्य प्रणवेन तु ॥४३ उद्धृत्य प्रणवेनैव पिबेञ्च प्रणवेन तु। महतापि स पापेन त्वचेवाहिर्विमुच्यते ॥४४ इन्द्रान इति यः पादं पठेद्यः संहितामिमाम् । अन्तर्जलेऽथवादित्ये तस्य पापं प्रणश्यति ।।४५