________________
२०७२
[ विंशो
वृद्धगौतमस्मृतिः ।
रहस्यमिदमत्यर्थं न श्राव्यं पापकर्मणाम् । अवैष्णवानामश्राव्यं प्रायश्चित्तं ब्रवीमि ते ॥ २६ वामनं ब्राह्मणं दृष्ट्वा मद्गतेनान्तरात्मना । नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत् ||२७ प्रदक्षिणन्तु त्रिः कुर्यात् पुनरष्टाक्षरेण तु । तेन तुष्टो नरश्रेष्ठ! तत्पापं क्षपयाम्यहम् ॥२८ पोत्रघृष्टां वराहस्य मृत्तिकां शिरसा वहन् । प्राणायामशतं कृत्वा नरः पापैर्विमुच्यते ॥ २६ दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गमेव च । प्रातः स्नातो नदीं गत्वा मम सूक्तेन शंसतः ॥ ३० सलिलेन तु यः स्नायात् सतिलेन रविग्रहे । तस्य यत्सवितं पापन्तत्क्षणादेव नश्यति ॥ ३१ मस्तकानि सृतैस्तोयैः कपिलाया युधिष्ठिर ! । गोमूत्रेणापि यः स्नायाद्रौहिंस्यान् ममवादिनः || ३२ विप्रपादच्युतैर्वापि तोयैः पापं प्रणश्यति । नमस्यैस्तु मद्भक्त्या शिंशुमारप्रजापतिम् ॥ ३३ चतुर्दशाङ्गयुक्तस्य तस्य पापं प्रणश्यति । ततश्चतुर्दशाङ्गानि शृणु तस्य नराधिप ! ||३४ शिरो धर्मो हनू ब्रह्म यज्ञमुत्तरदक्षिणौ । हृदयन्तु भवेद्विष्णुहस्तौ स्यातान्तथाश्विनौ । अत्रिमध्यं भवेद्राजन् ! लिङ्गं संवत्सरो भवेत् ॥ ३५