________________
ऽध्यायः ]
रहस्य प्रायश्चित्तवर्णनम् ।
स्थावरजङ्गमं श्रेष्ठं तत्त्वज्ञानपरिग्रहात् । कर्मणा हि विशुद्धस्य पुरुषस्यैव भारत ! ॥१६ हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते । गुरुतीर्थपरं ज्ञान मतस्तीर्थं न विद्यते ॥ १७ ज्ञानतीर्थन्तपस्तीर्थं ब्रह्मतीर्थं सनातनम् । क्षमा तु परमन्तीर्थं सर्वतार्थेषु पाण्डव ! ॥ १८ क्षमावतामयं लोकः परश्चैव क्षमावताम् । मानितोऽमानितोवापि पूजितोऽपूजितोऽपि वा । आकृष्टस्ताडितो वाऽपि क्षमावां स्तीर्थमुच्यते ॥ १६ क्षमा दमः क्षमा दानं क्षमा सत्यं क्षमा तपः । क्षमा हिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः || २० क्षमा दया क्षमा यज्ञः क्षमा धैर्ययुतं जगत् । क्षमावान् प्राप्नुयात् स्वर्गं क्षमावान् प्राप्नुयाद्यशः ॥२१ क्षमावान् प्राप्नुयान्मोक्षं क्षमावां स्तीर्थमुच्यते ॥२२ आत्मा नदी भारत ! पुण्यतीथं नत्वा तीर्थं सर्वतीर्थ प्रधानः । श्रुत्वा तीथ सर्वमात्मन्यथोच्चैः स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ||२३
२०७१
आचारवक्त्रान्तरगात्रशोभिना सत्यप्रसन्नेन मनोहरेण ।
ज्ञानाम्बुना स्नाति च योहि नित्यं किन्तस्य भूयः सलिलेन कृत्यम् ॥२४ युधिष्ठिर उवाच ।
भगवन् ! सर्वपापघ्नं प्रायश्चित्तमनुत्तमम् । त्वद्भक्तस्य नरश्रेष्ठ ! मम वक्तुं त्वमर्हसि ॥ २५
१३०