________________
[विंशो
२०७०
वृद्धगौतमस्मृतिः। दश दद्याचरणयोरेषा प्रेतविकल्पना। एवं विकल्पनां कृत्वा कुर्याद्विप्रस्तु संस्क्रियाम्॥६
___ युधिष्ठिर उवाच । विशेषतीर्थ सर्वेषां संशुद्धानामनुग्रहात् । भक्तानान्तारणार्थ वै वक्तुमर्हसि धर्मतः ॥७
श्रीभगवानुवाच।। प्रव(व)शं सर्वतीर्थानों सत्यङ्गायन्ति सामगाः । सत्यमवचनन्तीथं हिंसातीर्थ समुच्यते ।।८ दानन्तीर्थ दयातीर्थ शीलतीर्थ युधिष्ठिर !। अर्थसन्तोषणन्तीथं नारीतीथं पतिव्रता ॥ सन्तुष्टो ब्राह्मणस्तीथं ज्ञानं वै तीर्थमुच्यते । मद्भक्ताः सततं तीर्थ यतयस्तीर्थमुच्यते॥१० शरण्यः पुरुषस्तीथमन्नं तत्तीर्थमुच्यते । आतिथेयिः परन्तीर्थ मतिथीस्तीर्थमुच्यते ॥११ व्रतस्य धारणतीर्थ मार्जवन्तीर्थमुच्यते । देवशुश्रूषणन्तीथं गुरुशुश्रूषणन्तथा ॥१२ द्विजशुश्रूषणन्तीथं तीर्थ ज्ञानस्य धारणम् । दारसन्तोषणं तीर्थङ्गतं सन्तीर्थमुच्यते ॥१३ ब्रह्मचर्य परन्तीथं त्रेताग्निस्तीर्थभुच्यते । मूलधर्मः स विज्ञेय मनस्तत्रैव वा युतम् ॥१४ गच्छं स्तीर्थानि कौन्तेय ! धर्मोधर्मेण वर्तते । द्विविधतीर्थमित्याहुः स्थावरं जङ्गमन्तथा ।।१५