________________
२०६८
वृद्धगौतमस्मृतिः। [ऊनविंशो
युधिष्ठिर उवाच। ब्राह्मणस्वेन देहेन शूद्रत्वं कथमाप्नुयात् । ब्रह्म वा नश्यति कथं तदेव ! वक्तु मर्हसि ॥३३
श्रीभगवानुवाच । अपनानन्तु यो विप्रः कुर्याद् द्वादशवार्षिकम् । स तेनैव शरीरेण शूद्रत्वं याति पाण्डव । ॥३४ शूद्रग्रामे तथाप्येको वसेद्वा दशवार्षिकम् । ग्रहोक्तमपि कुर्वीत शूद्रत्वं याति वै द्विजः ॥३५ यस्तु राजाश्रयेणैव जीवेद् द्वादशवार्षिकम् । स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगो यदि ॥३६ वर्तते नगरे वाऽपि यो वा द्वादशमावसेत् । स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा ॥३७ उत्पादयति यत्पुत्रं शूद्रायां कामतोद्विजः। तस्य कायगतं ब्रह्म सर्वमेव विनश्यति ॥३८. मद्यपस्त्रीमुखं मोहादास्वादायति यो द्विजः। तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥३६ मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप !। तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥४० यः सोमलतिकां विप्रः केवलं भक्षयेद् वृथा । तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥४१ विप्रत्वं दुर्लभं प्राप्त वै मागै रेवमादिभिः । विनाशयन्तु यत्तत्तु तज्जोवापि युधिष्ठिर ! ।।४२