SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २०६७ ऽध्यायः] गायत्रीमन्त्रजपफलवर्णनम्। श्रीभगवानुवाच । द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा । अयने श्रवणे चैव व्यतीपाते तथैव च । अश्वत्थदर्शने चैव तथा मदर्शनेऽपि च ।।२५ जप्यात्तु मम गायत्री मथवाष्टाक्षरनृप ! । आजन्म दुष्कृतन्तस्य नाशयेन्नात्र संशयः॥२६ युधिष्ठिर उवाच । अश्वत्थदर्शनं देव ! किं त्वदर्शितसन्निभम् । एतत्कथय देवेश ! परं कौतूहलं हि मे ॥२७ ___ श्रीभगवानुवाच। अहमश्वत्थरूपेण पालयामि जगत्त्रयम् । अश्वत्थो न स्थितो यत्र नाहन्तत्र प्रतिष्ठितः॥२८ यत्राहं न स्थितो राजनश्वत्थश्चापि तत्र न । यस्त्वेनमर्चयेद्भक्त्या मां स साक्षात्ममार्चति ॥२६ यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्त सः। तस्मात्प्रदक्षिणं कुर्यान्नभिवादेन प्रत्यहम् ॥३० गावोविप्रा स्तथाश्वत्थो मम रूपं युधिष्ठिर !। एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित् ॥३१ अवमानितं चेत्तु हन्याइहत्या सप्तमं कुलम् । अश्वत्थोब्राह्मणोगावो मन्मया स्तारयन्ति हि । तस्मादेतत्प्रयत्नेन राजन् ! पूजितु महसि ॥३२
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy