SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २०६६ वृद्धगौतमस्मृतिः । ततश्चापि च्युतः कालादिह लोके द्विजोभवेत् । चतुर्णामपि वेदानां पारगो ज्ञानविद्भवेत् ||१५ चन्द्रसूर्यग्रहे यान्ति मम वा शङ्करस्य वा । गायते मम वा राजन् ! जपेद्वा शङ्करस्य वा ॥१६ शङ्ख ं कुर्वन्ति नादैश्च कांस्यघण्टाध्वनैरपि । कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं महत् ॥१७ गान्धर्वै हमजाप्यैश्च शब्दैरुत्कृष्टादिभिः । दुर्बलोऽभिभवेद्राहुः सोमश्च बलवान् भवेत् ॥१८ सूर्येन्दुपवेद्वै श्रोत्रियेभ्यः प्रदीयते । तत्सहस्रगुणं भूत्वा दातार मुपतिष्ठति ॥ १६ महापातकसंयुक्तो यद्यपि स्यान्नरो नृप ! | निर्लेप स्तत्क्षणादेव तेन दानेन जायते ||२० चन्द्रसूर्यप्रकाशेन विमानेन विराजता । याति सोमपुरं रम्यं सेव्यमानोऽप्सरोगणैः ||२१ यावन्नृक्षाणि तिष्ठन्ति गगने शशिना सह । तावत्कालं स राजेन्द्र | सोमलोके महीयते ॥ २२ ! ततश्चापि च्युतः कालादिह लोके युधिष्ठिर ! | वेदवेदाङ्गविद्विप्रः कोटी धनपति र्भवेत् ॥ २३ [ उनविंशो युधिष्ठिर उवाच । भगवंस्तव गायत्री जन्यते तु कथं नृभिः । किं वा तस्याः फलं देव ! ममाचक्ष्वसिताम्बर ! ॥२४
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy