SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २०६३ ऽध्यायः] युधिष्ठिरकृत विष्णोःस्तुतिवर्णनम्। त्रयीमय ! त्रयीनाथ ! त्रयीलभ्य ! नमोनमः । सृष्टिसंहारकर्तेति नारसिंह ! नमोनमः ॥३६ भक्तप्रिय ! नमस्तेऽस्तु सोमनाथ ! नमोनमः। यवक्तू नमस्तेऽस्तु चक्रपाणे ! नमोनमः ॥४० पञ्चभूत ! नमस्तेऽस्तु पञ्चायुध ! नमोनमः ॥४१ वैशम्पायन उवाच । भक्तिगद्गदया वाचा स्तुवन्नेव युधिष्ठिरः। गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत् ।।४२ निवार्य च पुनर्वाचा भक्तिनम्र युधिष्ठिरम् । वक्तुमेव नरश्रेष्ठं धर्मपुत्रं प्रचक्रमे ।।४३ श्रीभगवानुवाच। अन्यवत्किमिदं राजन्मां स्तौसि नरपुङ्गव !। तिष्ठ पृच्छ यथापूर्व धर्मानेव युधिष्ठिर ! ॥४४ युधिष्ठिर उवाच । भगवन् ! त्वत्प्रसादं तु स्मृत्वा स्मृत्वा पुनः पुनः। न शान्तिरस्ति देवेश ! नृत्यतीव च मे मनः ॥४५ इदश्च मम संप्रश्नं वक्तु महाँस माधव ।। द्वादश्यां कृष्णपक्षे तु अर्चनीयः कथं भवेत् ॥४६ श्रीभगवानुवाच। शृणु राजन् ! यथातथ्यं तत्सवं कथयामि ते । माहात्म्यं कृष्णद्वादश्या मर्चनीयम् फलं मम ॥४७
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy