________________
२०६२
वृद्धगौतमस्मृतिः। [अष्टादशोफलं यत्पूर्व मुद्दिष्टन्तस्याद्धं लभते फलम् । श्रवणेऽप्येवमेवं मां योऽचयेद्भक्तिमान्नरः ॥२६ मम सालोक्य मायाति नात्र कार्या विचारणा । मासे मासे समभ्यच्चय योनरो मामतन्द्रितः ॥३० एवं द्वादशवर्षाणि मद्भक्तो मत्परायणः। अविघ्न मर्चमानस्तु मम सालोक्यमाप्नुयात् ।।३१ अभ्यस्येत्प्रीतिमान सम्यक् द्वादश्यां वेदसंहिताम् । स पूर्वोत्तफलं राजन् ! लभते नात्र संशयः ॥३२ गन्धं पुष्पं फलं तोयं पत्रं वा मूलमेव वा। द्वादश्यां मम यो दद्यात्ततो नैवास्ति मत्प्रियः ॥३३ एतेन विधिना सर्वे देवाः शक्रपुरोगमाः। मद्भक्ता नरशार्दूल ! स्वर्गलोकांस्तु भुञ्जते ॥३४
वैशम्पायन उवाच । एवं वदति देवेशे केशवे पाण्डुनन्दनः । कृताञ्जलिपुटं न्यस्त्य मिदं भक्त्या ह्युवाच ह ॥३५
युधिष्ठिर उवाच । यज्ञात्मन्यज्ञसम्भूत ! यज्ञनाथ नमोनमः। चतुर्ते ! चतुर्बाहो ! चतुयूँह ! नमोनमः ॥३६ लोकात्मन् ! लोकनाथेश ! लोकवास ! नमोनमः । सर्वज्ञ ! सर्वलोकेश ! हृषीकेश ! नमोनमः ॥३७ सहस्रशिरसे तुभ्यं सहस्राक्ष ! नमोनमः । पञ्चयज्ञ ! नमस्तेऽस्तु सर्वयज्ञ ! नमोनमः ॥३८