SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] उपवासवतफलवर्णनम् २०६१ द्वादश्यामेव वा कुर्यादुपवासमशक्नुवन् । तेनाहं परमां प्रीतिं यास्यामि नरपुङ्गव ! ॥१८ अहोरात्रेण द्वादश्यां मागशीर्षे च केशवम् । उपोष्य पूजयेद्यो मां सोऽश्वमेधफलं लभेत् ॥१६ द्वादश्यां पौषमासे तु भक्त्या नारायणन्तु माम् । उपोष्य पूज्य सद्यः स वाजपेयफलं लभेत् ।।२० द्वादश्यां माघमासे तु मामुपोष्य तु माधवम् । पूजयेद्यः समाप्नोति पौण्डरीकफलं नृप ! ।।२१ उपोख्य मां यो वैशाख्यां द्वादश्यां मधुसूदन । पूजयन् फलमाप्नोति सोऽमिष्टोमस्य पाण्डव ! ॥२२ द्वादश्यां ज्येष्ठमासे मां समुपोष्य त्रिविक्रमम् । अर्चयेद्यः समाप्नोति गवां मेधफलं नृप ! ॥२३ आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य यत् । पूजयेन्नरमेधस्य तत्फलं प्राप्नुयान्नृप !॥२४ द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम् । पूजयेद्यः समाप्नोति पञ्चयज्ञफलं नृप ! ।।२५ मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत् । उपोष्य पुनराप्नोति सौत्रामणिफलं नृप ! ॥२६ द्वादश्या माश्वयुमासे पद्मनाभमुपोष्य माम् । अर्चयेद्यः समाप्नोति गोसहस्रफलं नृप ! ॥२७ द्वादश्यां कार्तिके मासि मां दामोदरसंश्रितम् । उपोष्य पूजयेद्यः स सर्वक्रतुफलं लभेत् । केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन ! ।।२८
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy