SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २०६० [ अष्टादशो वृद्धगौतमस्मृतिः । विप्रहस्तच्युतस्तोयैः सहिरण्यैः समुक्षितः । तस्य पुण्यफलं राजन् ! कथ्यमानं मया शृणु ॥ दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोऽपि वा । तद्विन्यश्यति तस्याशु नात्र कार्या विचारणा ||१० युधिष्ठिर उवाच । सवषामुपवासानां यज्ञे यत् सुमहाफलम् । तत्सर्वं श्रेयसे लोकं तद्भवान् वक्तुमर्हति ॥११ श्रीभगवानुवाच । शृणु राजन् ! यथापूर्वं यथाहीनन्तु भारत ! | कथान्ते कथयिष्यामि मद्भक्तस्य युधिष्ठिर ! ||१२ यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप ! | उपवासकृतं कुर्यात्त्रिकालभ्यार्चयस्तु माम् ॥१३ सव ऋतुफलं लब्ध्वा मम लोके महीयते ॥ १४ युधिष्ठिर उवाच । भगवन् ! देवदेवश ! पञ्चमी नामका तिथिः । तामहं श्रोतुमिच्छामि कथयस्व ममाच्युत ! ||१५ श्रीभगवानुवाच । पवद्वयञ्च द्वादश्यां श्रवणञ्च नराधिप । । मत्पञ्चमीति विख्याता मत्प्रियश्च विशेषतः ||१६ तस्माद्भागवतैर्भुक्तैर्मन्निवेशितबुद्धिभिः । उपवासस्तु कर्तव्यो मत्प्रियार्थं युधिष्ठिर ! ||१७
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy