SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] एकभुक्त पुण्यफलवर्णनम् । २०५६ अष्टादशोऽध्यायः। अथैकभुक्त पुण्यफलवर्णनम् । युधिष्ठिर उवाच । देव ! संवत्सरं पुण्यमेकभुक्तेन यः क्षपेत् । तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव !॥१ श्रीभगवानुवाच । शृणु पाण्डव ! सत्यं मे वचनं पुण्यमुत्तमम् । यच्छ त्वा वाथ कृत्वा वा नरः पापैविमुच्यते ॥२ एकभुक्तेन वर्तेत नरः संवत्सरन्तु यः। ब्रह्मचारी सदा शान्तो जितक्रोधो जितेन्द्रियः॥३ शुचिः स्नानरतोऽव्यग्रः सत्यवागनसूयकः । .. अर्चत्येव तु मां नित्यं मद्तेनान्तरात्मना ॥४ सन्ध्ययोस्तु जपेन्नित्यं मद्गायत्री समाहितः । नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च ॥५ विप्रमग्रासने कृत्वा पावकं भैक्षमेव वा । भूत्वा तु वाग्यतो भुक्त्वा वाचम्यास्य द्विजन्मनः ॥६ नमोऽस्तु वासुदेवायेत्युक्त्वा तु चरणं स्पृशेत् ।। मासे मासे समाप्ते तु भोजयित्वा द्विजः शुचीन ॥७ सम्वत्सरे ततः पूर्णे दद्यात्तु घृतदक्षिणाम् । नवनीतमयीं गां वा तिलधनुमथापि वा ॥८
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy