________________
२०५८
वृद्धगौतमस्मृतिः। [सप्तदशोतिलान्वाथ घृतं वाऽपि व्रतान्ते दक्षिणां दिशेत् । मद्भक्तस्य नरश्रेष्ठ ! तस्य पुण्यफलं शृगु ॥५१ यत्फलं विधिवत्प्रोक्त राजसूयाश्वमेधयोः। तत्पुण्यफलमासाद्य शकलोके महीयते ॥५२ ततश्चापि च्युतः कालाजायते धनदालये । तत्र प्रकामं क्रीड़ित्वा राजा भवति मानुषे ॥५३ यश्चाप्याश्वयुजं मासमे कभुक्तेन वर्तते । यद्गायत्री जपन्विप्रो मद्गतेनान्तरात्मना ॥५४ द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टशतन्तु वा । विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः॥५५ व्रतान्ते भोजयेद्विप्रांस्तस्य पुग्यफलं शृणु । अश्वमेधेन यत्पुण्यं विधिवत्पाण्डुनन्दन ! ॥५६ तत्पुण्य फलमासाद्य मम लोके महीयते । ततश्चापि च्युतः कालात् श्वेतद्वीपे प्रजायते ॥५७ तत्र भुक्त्वा महान् भोगांस्तत्र विप्रो हि जायते ॥५८ इति गौतमीये वैष्णवधर्मशास्त्रे सप्तदशोऽध्यायः।