________________
ऽध्यायः] द्वादशमासेषु धर्मकृत्यवण्नम्। २०५७
ब्रह्मचारी जितक्रोधो मदचनपरायणः । विप्रमग्रासने कृत्वा भुञ्जन् भूमौ जितेन्द्रियः ॥४० कृत्वा त्रिषवणस्नान मष्टाक्षरविधानतः । व्रतान्ते भोजयेद्विप्रान् पायसेन युधिष्ठिर ! ॥४१ गुड़ौदनेन वा राजस्तस्य पुण्यफलं शृणु । कपिलाशतदत्तस्य यत्पुण्यं पाण्डुनन्दन ! ॥४२ तत्पुण्यफलमासाद्य देवलोके महीयते । ततोऽवतीर्णः कालेन शाकद्वीपे प्रजायते ॥४३ ततश्चापि च्युतः कालादिह विप्रो भविष्यति । श्रावणं यः क्षपेन्मासमेकं भुङ्क्त न संशयः॥४४ नमो ब्रह्मण्यदेवायेत्युक्त्वा मा मर्चयेत्सदा । विप्रमग्रासने कृत्वा भूमौ भुजन्यथाविधि ।।४५ पायसेनाचंयन्विप्रान् जितक्रोधो जितेन्द्रियः। . लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥४६ कपिलाशतस्य यत्पुण्यं विधिदत्तस्य वासव !। तत्पुण्यं समनुप्राप्तः शक्रलोके महीयते ॥४७ ततश्चापि च्युतः कालात् कुशद्वीपे प्रजायते । तत्र प्रकामं क्रीड़ित्वा विप्रो भवति मानुषे ।।४८ यस्तु भाद्रपदं मासमेकमुक्तेन वर्तते । ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः ।।४६ विप्रमग्रासने कृत्वा पाकभेदविवर्जितः। नमो ब्रह्मण्यदेवायेत्युक्त्वा सुचरणौ स्पृशेत् ।।५०