________________
२०५६
वृद्धगौतमस्मृतिः ।
यदग्निहोत्रं यः पुण्यं यथोक्तव्रतचारिणः । तत्पुण्यफलमासाद्य चन्द्रलोके महीयते ||३० ततोऽवतीर्णो जायेत वर्ष रमणके पुनः । भुक्त्वा कामन्ततस्तस्मिन्निह राजा भविष्यति ॥ ३१ वैशाखं यस्तु वै मासमेकभुक्तेन वर्तते । द्विजमप्रासने कृत्वा भुञ्जन भूमौ च वाग्यतः ॥ ३२ नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम् । तान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥३३ फलं यद्विधिवत्प्रोक्त मग्निष्टोमातिरात्रयोः । तत्पुण्यफलमासाद्य देवलोके महीयते ||३४ ततो हैमवते वर्षे जायते कालपर्युपात् । तत्र प्रकामं मोदित्वा विप्रः पश्चाद्भविष्यति ||३५ ज्येष्ठमासे तु भो राजन्नेकभुक्तेन वर्तते । विप्रमप्रासने कृत्वा भूमौ भुञ्जन् जितेन्द्रियः ||३६ नमो ब्रह्मण्यदेवायेत्यर्चयन्मां समाहितः । दम्भानृतविनिमुक्तस्तस्य पुण्यफलं शृणु । चीर्णे चान्द्रायणे सम्यक् यत्पुण्यं समुदाहृतम् ॥३७
तत्पुण्यफलमासाद्य देवलोके महीयते । अथोत्तरकुरुध्वेव जायते निर्गतस्ततः ॥ ३८
ततश्चापि चतः कालादिह लोके द्विजो भवेत् । आषाढमासं यो राजन्नेकभुक्तेन वर्तते ॥ ३६
[ सप्तदशो