________________
ऽध्यायः] द्वादशमासेषु धर्मकृत्यवर्णनम ।
२०५५ माघमासन्तथा यस्तु वर्तते चैकभुक्ततः । मदर्चनपरो भूत्वा दम्भक्रोधविवर्जितः । मामिका मपि गायत्री सन्ध्यायां तु जपेद्विजः ॥२० दत्त्वा तु दक्षिणामन्ते भोजयित्वा द्विजानपि । नमस्करोति तान् भक्त्या मद्गतेनान्तरात्मना ।।२१ त्रिकालस्नानयुक्तस्य तस्य पुण्यफलं शृणु। नीलकर्णाप्रयुक्तेन यानेन सचरो भवेत् ।।२२ पितृलोकं पूजयित्वा सेव्यमानोऽप्सरोगणः । तत्र प्रकामं क्रीड़ित्वा भद्रश्चेषूपजायते ॥२३ तत्र च्युतश्चतुर्वेदी विप्रो भवति भूतले । क्षपेत् फाल्गुनमासं य एकभुक्तेन संयतः ।।२४ नमो ब्रह्मण्यदेवायेत्यजस्रंत्रिपन् सदा। पायसं भोजयेद्विप्रान् व्रतान्ते संयतेन्द्रियः॥२५ मदर्चनपरः क्रोधलोभमोहविवर्जितः।। सदाचारव्रतपरस्तरय पुण्यफलं शृणु ॥२६ विमानैः सारसैयुक्तमारूढः कामगं सुखम् । नक्षत्रलोके रमते सर्वनक्षत्रशोभितः ॥२७ ततश्चापि च्युतः कालात् केतुमालेषु जायते । तत्र प्रकामं क्रीड़ित्वा मानुषे नृपतिर्भवेत् ।।२८ चैत्रमासेषु योमत्य एक भुक्तन वर्तते । ब्रह्मचारी तु मद्भक्तस्तस्य पुण्यफलं शृणु ।।२६ १२६