________________
.
२०५४
वृद्धगौतमस्मृतिः। [सप्तदशोततश्चापि च्युतः कालान् मानुषेषूपजायते। तत्र प्रकामं क्रोडित्वा सर्वलोकेषु पूजितः ॥8 राजराजाचितोविप्रः कोटिधनपतिर्भवेत् । मार्गशीर्षे तु यो मासे एकभुक्तन वर्तते ॥१० कामं कोधञ्च लोभश्च परित्यज्य यथाविधि । स्नात्वा चादित्यरूपं मामर्चयन्ति यन्द्रियाः॥११ जपन्न व तु गायत्री मामिकां वाग्यतः शुचिः। मासे परिसमाप्ते तु भोजयित्वा द्विजान शुचीन् ॥१२ तानचयन्ति मद्भक्त्या तस्य पुण्यफलं शृणु । अग्निहोत्रे हुतं पुण्य माहिताग्नेस्तु यद्भवेत् ॥१३ तत्पुण्यफलमाप्नोति यानेनाम्बरयोगिना । सक्षर्षिलोके चरति यथाकामं यथासुखम् ।।१४ ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते । तत्र प्रकामं क्रोडित्वा राजा पश्चाद्भविष्यति ॥१५ पौषमासं क्षपेदेक मेकभक्त न यो नरः । अचयेत्तु च मां नित्यं मद्गतेनान्तरात्मना ॥१६ अहिंसासत्यनिरतः कोधहर्षविवर्जितः । एवं युक्तस्य राजेन्द्र ! शृणुयाः फलमुत्तमम् ॥१७ विप्रातिथ्यसहस्रे तु यत्पुग्यं समुदाहृतम् । तत्फलं समनुप्राप्तः शक्रलोके महीयते ।।१८ अवतोर्ण स्ततः कालादिलावर्षेषुजायते । तत्र स्थित्वा चिरं कालमिह विप्रो भविष्यति ॥१६