________________
२०५३
ऽध्यायः] द्वादशमासेषु धर्मकृत्यवर्णनम् ।
सप्तदशोऽध्यायः। अथ द्वादशमासेषु धर्मकृत्यवर्णनम् ।
वैशम्पायन उवाच। केशवेनैवमाख्याते चान्द्रायणविधिक्रमे। पप्रच्छ पुनरप्यन्यान् धर्मान् धर्मात्मजो नृपः॥१
युधिष्ठिर उवाच । सर्वभूतहिते श्रीमन् ! सर्वभूतनमस्कृत !। सर्वभूतहितं धर्म सर्वज्ञ ! कथयस्व मे ॥२ यद्दरिद्रजनस्यापि स्वर्ग सुखकरम्भवेत् । सर्वपापप्रशमनन्तच्छृणुष्व युधिष्ठिर ! ॥३ कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः। तेष्वेकभक्तनियमः सर्वेषा मुच्यते मया ॥४. कार्तिके यस्तु वै मासे नन्दया संयतो नरः। एकभुक्तन मद्भक्तो मासमेकं तु वर्तते ॥५ जलपानं पिवेन्मासो नान्तराभोजनात्परम् । आदित्यरूपं मांश्चापि नित्यमध्ये समाहितः ॥६ व्रतान्ते भोजयेद्विप्रान् दक्षिणाञ्चापि तत्पुनः । क्रोधलोभविमुक्तस्य तस्य पुण्यफलं शृणु ॥७ विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम् । तत्पुण्यं समनुप्राप्य सूर्यलोके महीयते ॥८