________________
२०५२
वृद्धगौतमस्मृतिः ।
परहस्तस्थितश्चैव भुक्तत्रा चान्द्रायणञ्चरेत् । आसनस्थश्च ये भुङ्क्त े शयनीयगतोऽपि वा ॥ ३६ यो भुङ्क्त े वासनस्थस्तु द्विजश्चान्द्रायणञ्चरेत् । यो भुङ्क्त ऽनुपनीतेन यो भुङ्क्त े च स्त्रिया सह ॥४० यो भुङ्क्त े अन्यथा सार्द्धं द्विजश्चान्द्रायणञ्चरेत् । उच्छिष्टं स्थापयेद्विप्रो योमोहाद्भोजनान्तरे ॥४१ दद्याद्वा यदिवा स्नेहा द्विजश्चान्द्रायणञ्चरेत् । तुम्बं कोशातकचैव पलाण्डु गृञ्जनन्तथा ॥४२ छत्राकं लशुनचैव जग्ध्वा चान्द्रायणञ्चरेत् । तथा पर्युषितं चान्न पक्कं परगृहागतम् ॥४३ द्विपक्कञ्च वृथामांसं जग्ध्वा चान्द्रायणञ्चरेत् । उदक्या च शुना वाऽपि चण्डालैर्वा नराधिप । ॥४४ स्पृष्टमन्नन्तु भुञ्जानो द्विजश्चान्द्रायणञ्चरेत् । एतत्परं हि शुध्यर्थमृषिभिश्चरितव्रतम् ॥४५ पावनं सर्वपापानां पुण्यं पाण्डव ! चोत्तमम् । एतेन वसवो रुद्रा आदित्याश्च दिवङ्गताः ॥४६ एतदाद्यं परं गुह्यं पवित्रं पावनं स्मृतम् । यथोक्तमेतद्यः कुर्यादुद्विजः पापप्रणाशनम् ॥४७ स दिवं याति पूतात्मा निर्मलादित्यसन्निभः ॥४८ इति गौतमीये वैष्णवधर्मशास्त्रे षोडशोऽध्यायः ।
!
[ षोड़शो