SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २०५१ ऽध्यायः] चान्द्रायणविधिवर्णनम् । सथा पिण्डाश्च वर्धन्ते हसन्ते च दिने दिने । त्रिकालस्नानमस्योक्तं द्विकालमथवा सकृत् ।।२८ ब्रह्मचारी सदा चापि न च वस्त्रं प्रपीडयेत् । स्थाने च दिवसे तिष्ठेत् रात्रौ वीरासनं व्रजेत् ॥२६ भवेत् खण्डिलशायी वा अथवा वृक्षमूलकः। वल्कलं यदि वा क्षौमं शाणकपसियतया ॥३० आच्छादनं भवेत्तस्य वस्त्रार्थ पुरुषषभ !। एवञ्चन्द्रायणे पूर्णे मासस्यान्ते प्रवृत्तिमान् ॥३१ ब्राह्मणान् भोजयेद्भक्त्या दद्याच्चैव तु दक्षिणाम् । चान्द्रायणेन चीर्णेन यत्कृतन्तेन दुष्कृतम् ॥३२ तत्सव तत्क्षणादेव भस्मीभवति काष्ठवत् । ब्रह्महत्याथ गोहत्या सुवर्णस्तैन्यमेव तु ॥३३ भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः । एवमन्यानि पापानि पतनीयानि यानि च ॥३४ चान्द्रायणेन नश्यन्ति वायुना पांशवो यथा। अनिर्देशाया गोः क्षीरं मौष्ट्रमाविकमेव च ॥३५ मृतसूतकयोश्चान्न भुक्त्वा चान्द्रायञ्चरेत् । सुरामांसामिषं सर्पिर्लाक्षा लवणमेव च ॥३६ तैलं सोमश्च विक्रीणन् द्विजश्चान्द्रायणञ्चरेत् । एकोद्दिष्टञ्च योभुङ्क्ते योभुङ्क्त वासनस्थितः ॥३७ भिन्नभाण्डेतु योभुङ्क्त द्विजश्चान्द्र'यणश्चरेत् । आकाशस्थितहस्तोय आसनस्थस्तथैव च ॥३८
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy