________________
ऽध्यायः ]
अग्निहोत्रप्रकरणवर्णनम् ।
न तेऽग्नि होत्रिणां लोकान् मनसापि ब्रजन्ति वे । वीरघ्नास्ते दुराचाराः सुदरिद्रा नराधमाः ||८६ विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु । तस्मात्प्रोषितकै नित्य मग्निहोत्रं द्विजन्मभिः ॥८७ होतव्यं विधिवद्राजनृध्वमिच्छन्ति ते गतिम् । अमृज्यं सूत्रमेतस्मादग्निहोत्रं युधिष्ठिर ! ॥८८ न त्याज्य मप्येतद्गृहीतव्यं द्विजातिभिः । वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्विजा ॥८६ शूद्रान्नाद्विरताः सन्तः संयन्तेन्द्रियबुद्धयः । पञ्चयज्ञपरा नित्यं क्रोधलोभविवर्जिताः ॥६० द्विकाल मतिथिनचैव पूजयन्ति च भक्तितः । तेऽपि सूर्योदयप्रख्यै विमाने र्वायुवेगिभिः ॥ ६१ मम लोके प्रमोदन्ते दृष्ट्वा माध्च युधिष्ठिर ! | मन्वन्तरश्च तत्रकं मोदित्वा द्विजसत्तमाः ॥ हर इह मनुष्यके लोके भवन्ति द्विजपुङ्गवाः । बाला हिताग्नयो ये च शूद्रान्नद्विरताः सदा ॥६३ क्रोधलोभविनिर्मुक्ताः प्रातः स्नानपरायणाः । यथोक्त मग्निहोत्रं वै जुह्वते संयतेन्द्रियाः ॥६४ संतिष्ठेद्वा सदा सौम्यो द्विकालं मत्परायणः । ते यान्त्यपुनरावृत्ति भित्वा चादित्यमण्डलम् ॥६५ मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः ।
तत्र बालाः ससंस्काराः कालगाः कमरूपिणः ॥६६
२०४७